नवदिल्ली - वित्तमन्त्रिणः श्री प्रणबमुखर्जीमहोदयस्य आध्यक्ष्ये विशिष्टमन्त्रिवृन्देन अद्य इन्धनतैलानां मूल्यानि संवर्धितानि। अद्य निशीथात् प्रभृति पेट्रोल् तैलस्य प्रतिलिट्टर् सार्ध-त्रिरूप्यकाणि डीसल् तैलस्य द्विरूप्यकाणि च मूल्यानि भविष्यन्ति। अपि च पचनवातकस्य पञ्चत्रिंशत् रूप्यकाणि, मृत्तैलस्य त्रिरूप्यकाणि संवर्धितमस्ति। मूल्यवर्धना राज्ये सामान्यजनानां जीवनं दुस्सहं करिष्यतीति विपक्षिदलाः आरोपितवन्तः। अत्रान्तरे केरलदेशे श्वः हर्ताल् प्रचालयितुं केरलीयवामपक्षीयदलाः निर्णीतवन्तः।