दक्षिणाफ्रिक्का - आतिथेयः इत्येककारणेन विश्वचषक-पादकन्दुक-स्पर्धायां लब्धभागः दक्षिणाफ्रिक्कावृन्दः स्पर्धायाः द्वितीयपादं न प्रविष्टः। फ्रान्स् दलस्योपरि तृतीये मत्सरे २-१ इति लक्ष्यभेदेन विजेताः चेदपि ए-विभागात् अधिकाङ्कलाभेन मेक्सिक्को द्वितीयपादं प्राप्तवन्तः। अत्रान्तरे यु.एस.ए, यु.के वृन्दौ च द्वितीयपादं प्राप्तवन्तौ।