नवदिल्ली - उत्तरभारतस्य विभिन्नस्थलेषु उग्रः ग्रीष्मातपः दृश्यते। अतितरेण तापमानेन सामान्यजनाः अतितराः क्लेशाः अनुभवन्ति। मध्यप्रदेश-हरियाना-चण्डीगढ देशेषु प्रचण्डः सूर्यकोपः पञ्चचत्वारिंशत् डिग्रि-सेल्षियस् अतिक्रान्तः भवति।