वाषिङ्टण् - अफ्गानिस्तानस्य राष्ट्रपतिना हमीद् कर्सायिना साकं संयुक्तवार्ताहरसम्मेलनं संबोधयन् अमेरिका राष्ट्पतिः श्री बराक् ओबामा अकथयत् यत् पाकिस्तानस्य यथार्थशत्रुः आतङ्कवादः एवास्ति, न कदाचित् भारतम् इति। किन्तु पूर्वं भारतमेव प्रमुखः चिन्ताविषयः इति पाकिस्तानस्य अनुमानः आसीत्।