नवदिल्ली - भारत-पाकिस्तानयोः मिथः विदेशमन्त्रितलचर्चा आगामी जूलाय् मासस्य पञ्चदश दिनाङ्के इस्लमाबादे प्रचलिष्यति। तत्रान्तरे गृहमन्त्री श्री पि. चिदम्बरमाहाशयः आगामिनी मासे षड्विंश तिथौ आयोजयिष्यमाणस्य सार्क् सम्मेलनस्य गृहमन्त्रिणां सम्मेलनक्रमे पाकिस्तानीय गृहमन्त्रिणा साकं संभाषणं विधास्यति। ह्यः देशद्वयस्य गृहमन्त्रिभ्यां दूरवाणी संभाषणे अयं क्रमः निर्णीतः।