तिरुवनन्तपुरम् - अखिल भारतीय कोण्ग्रस् दलस्य महासचिवः राहुल् गान्धी महोदयः अद्य केरलं संप्राप्तः। केरले श्री राहुल्गान्धी युवदलस्य निर्वाचनमधिकृत्य युवसदस्यान् अभिसंबोधनांं कृतवान्। प्रथमं कासरगोड् जिल्लायां प्राप्तः सः तदनन्तरं कोल्लम् जिल्लायां आगत्य संघटनाचर्चां कृतवान्। अद्य एव श्री राहुलः प्रतिगच्छतीति श्रूयते।