नवदिल्ली - पश्चिमोत्तरभारतयोः सर्वेषु भागेषु भीषणः सूर्यप्रतापः अनुवर्तते। एषु अधिकभागेषु तापमानं चत्वारिंशत् डिग्रि सेल्षियस् परिमितं आगतमस्ति। उत्तरप्रदेशे सान्द्रग्रीष्मपेण सामान्यं जनजीवनं दुरापादितम्। तत्र इतःपर्यन्तं पञ्चजनाः प्रबलसूर्यतापेन मृताः। नवदिल्ल्यां ह्यः द्विचत्वारिंशदधिकं आसीत् तापमानम्।