तिरुवनन्तपुरम् - अद्य केरलदेशीयाः विषुवम् सामोदम् आघुष्यन्ते। केरलीयकृष्णमन्दिरेषु प्रभाते 'कणि' द्रष्टुं अभूतपूर्वाः जनसञ्चयः आगताः। केरलीयभवनेषु जनाः स्वपरिवारैः साकं विविधानि स्फोटकाणि स्फोटनं कृत्वा रुचिकराः भक्षणविभवाः पचनं कृत्वा च तीव्रशब्दैः वर्णोज्वलैः विषुवमाघोषितवन्तः। केरलीयमुख्यमन्त्री श्री वि.एस् अच्युदानन्दन् महाशयाः केरलीयान् अस्मिन् दिने आशंसितवन्तः। सर्वेषां जनानां नववाण्याः विषुवमाशंसाः।