नवदिल्ली - महिलासंवरणनियमं अग्रे नेतुं दृढप्रतिज्ञेन कोण्ग्रस् राजनीतिकदलेन एप्रिल् मासस्य पञ्चमदिने लोकसभायां सर्वेषां राष्ट्रीयदलानां नेतृ्ृणामेकं सम्मलनं आहुतमस्ति। उभयोः सभायोः महिलाभ्यः प्रतिशतं त्रयत्रिंशत् परिमितानि स्थानानि परिपालयितुं अस्मिन्नेव सम्मेलने समवायः परिगणनीयः इति सूचना।