नवदिल्ली - राज्ये सर्वशिशूनां विद्याभ्यासं मौलिकावकाशत्वेन लब्धुं अवसरः समागतः। २०१० एप्रिल् मासस्य प्रथमदिनादारभ्य अस्य शासनस्य प्रभावः भविष्यति। अनेन शासनेन षट्वर्षीयात् चतुर्दशवर्षीयाः सर्वे बालाः विद्यालयेषु अवश्यं प्रविष्टा स्युः। एतद्विधेरनुसारं समाजस्य दुर्बलविभागीयछात्रेभ्यः प्रतिशतं पञ्चविंशति परिमितानि स्थानानि संभावितुं विद्यालयाः बाध्याः भवेयुः।