रायबरेली - अयोध्यायां विवादास्पदस्य निर्माणस्य विध्वंसनावसरे बि.जे.पि. दलस्य नेतारः श्री अद्वानी करसेवकानां उत्तेजकात्मकं प्रभाषणं कृतवानिति भारतीयारक्षिसेवाधिकारिणी अञ्जु गुप्ता केन्द्रीयान्वीक्षणविभागीय न्यायालये उक्तवती।