कोच्ची - आयुर्वेदस्य विपणीशाक्तीकरणाय अस्मिन् मासे २४,२५,२६ तमेषु दिनेषु भारतीय व्यावसायिक संस्थया कोच्च्यां आयोजिते आगोलायुर्वेदसम्मेलने आयुर्वेद-योग-सिद्ध-युनानि चिकित्साविधीनां मन्त्रालयस्य केरलसर्वकारस्य च सहकरणं भविष्यन्ति।आगोलारोग्यरंगस्य प्रधानसमस्याः भवति सम्मेलनस्य मुख्यविषयः। अस्मिन् विषये विदग्धानां संगोष्ठीचालनं, चर्चाः, प्रभाषणानि च प्रचलिष्यन्ति।केरलराज्यं आयुर्वेदस्य आगोलकेन्द्रमिव कारयितुमपि सम्मेलनं यत्नं करिष्यति।