तिरुवनन्तपुरम् - केरलीय विनोदसञ्चारसंस्थायाः प्रचारणार्थं ब्रान्ड् अम्बासडर् इति प्रत्यक्षीकर्तुं सुप्रसिद्ध हिन्दीचलनचित्राभिनेतारः श्री अमिदाब् बच्चन् महोदयाः अनुकूलाः इति श्रूयते। एतदर्थं स्वानुकूलाभिप्रायं प्रकटितमेकं लेखं केरलसर्वकारसमक्षं प्रेषितः बच्चन् महोदयाः इति वार्ताहराः वदन्ति।